|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.102. अध्यायः 102
Mahabharata - Adi Parva - Chapter Topics
महाभिषगुपाख्यानम्॥ 1 ॥ महाभिषग्गङ्गयोः शापः॥ 2 ॥ अष्टवसूनां गङ्गायाश्च संवादः॥ 3 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-102-0x(626)(4527)
इक्ष्वाकुवंशप्रभो राजासीत्पृथिवीपतिः।
महाभिषगिति ख्यातः सत्यवाक्सत्यविक्रमः॥ 1-102-1(4528)
सोऽश्वमेधसहस्रेण राजसूयशतेन च।
तोषयामास देवेशं स्वर्गं लेभे ततः प्रभुः॥ 1-102-2(4529)
ततः कदाचिद्ब्रह्माणमुपासांचक्रिरे सुराः।
तत्र राजर्षयो ह्यासन्स च राजा महाभिषक्॥ 1-102-3(4530)
अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम्।
तस्या वासः समुद्धूतं मारुतेन शशिप्रभम्॥ 1-102-4(4531)
ततोऽभवन्सुरगणाः सहसाऽवाङ्मुखास्तदा।
महाभिषक्तु राजर्षिरशङ्को दृष्टवान्नदीम्॥ 1-102-5(4532)
सोपध्यातो भगवता ब्रह्मणा तु महाभिषक्।
उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि॥ 1-102-6(4533)
यया हृतमनाश्चासि गङ्गया त्वं हि दुर्मते।
सा ते वै मानुषे लोके विप्रियाण्याचरिष्यति॥ 1-102-7(4534)
यदा ते भविता मन्युस्तदा शापाद्विमोक्ष्यते। 1-102-8(4535)
वैशम्पायन उवाच।
स चिन्तयित्वा नृपतिर्नृपानन्यांस्तपोधनान्॥ 1-102-8x(627)
प्रतीपं रोचयामास पितरं भूरितेजसम्।
सा महाभिषजं दृष्ट्वा नदी दैर्याच्च्युतं नृपम्॥ 1-102-9(4536)
तमेव मनसा ध्यायन्त्युपावृत्ता सरिद्वरा।
सा तु विध्वस्तवपुषः कश्मलाभिहतान्नृप॥ 1-102-10(4537)
ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः।
तथारूपांश्च तान्दृष्ट्वा प्रपच्छ सरितां वरा॥ 1-102-11(4538)
किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम्।
तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि॥ 1-102-12(4539)
अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना।
विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम्॥ 1-102-13(4540)
सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा।
तेन कोपाद्वयं शप्ता योनौ संभवतेति ह॥ 1-102-14(4541)
न तच्छक्यं निवर्तयितुं यदुक्तं ब्रह्मवादिना।
त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि॥ 1-102-15(4542)
न मानुषीणां जठरं प्रविशेम वयं शुभे।
इत्युक्ता तैश्च वसुभिस्तथेत्युक्त्वाऽब्रवीदिदम्॥ 1-102-16(4543)
गङ्गोवाच। 1-102-17x(628)
मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति। 1-102-17(4544)
वसव ऊचुः।
प्रतीपस्य सुतो राजा शान्तनुर्लोकविश्रुतः।
भविता मानुषे लोके स नः कर्ता भविष्यति॥ 1-102-17x(629)
गङ्गोवाच। 1-102-18x(630)
ममाप्येवं मतं देवा यथा मां वदथानघाः।
प्रियं तस्य करिष्यामि युष्माकं चेतदीप्सितम्॥ 1-102-18(4545)
वसव ऊचुः। 1-102-19x(631)
जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि।
यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे॥ 1-102-19(4546)
जिघृक्षवो वयं सर्वे सुरभिं मन्दबुद्धयः।
शप्ता ब्रह्मर्षिणा तेन तांस्त्वं मोचय चाशु नः॥ 1-102-20(4547)
गङ्गोवाच। 1-102-21x(632)
एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम्।
नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह॥ 1-102-21(4548)
वसव ऊचुः। 1-102-22x(633)
तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम्।
तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः॥ 1-102-22(4549)
न संपत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः।
तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान्॥ 1-102-23(4550)
एवं ते समयं कृत्वा गङ्गया वसवः सह।
जग्मुः संहृष्टमनसो यथासंकल्पमञ्जसा॥ ॥ 1-102-24(4551)
इति श्रीमन्महाभारते आदिप्रवमि संभवपर्वणि द्व्यधिकशततमोऽध्यायः॥ 102 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-102-6 अपध्यातः शप्तः॥ 1-102-10 विध्वस्तवपुषो दिवश्च्युतत्वात्॥ 1-102-14 अत्यभिसृता अतिक्रान्तवन्तः। वक्ष्यमाणेन तद्धेनुहरणेनेति शेषः॥ 1-102-19 नचिरकालं शीघ्रम्। नोऽस्माकम्॥ 1-102-22 तुरीयार्धमष्टमांशम्॥ द्व्यधिकशततमोऽध्यायः॥ 102 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|